OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, April 24, 2026

 अत्यधिकं मतदानम्।

वंगे ९१+%, तमिलनाटे ८४+%। 

कोल्कोत्ता/चेन्नई> ह्यः निर्वाचने सम्पन्ने पश्चिमवंगे तमिलनाटे च उन्नततरं मतदानं सम्पन्नम्। पश्चिमवंगविधानसभानिर्वाचनस्य प्रथमचरणे गुरुवासरे ९१. ७८% मतदानिनः स्वाधिकारं प्रयुक्तवन्तः। राज्यचरित्रे अत्युच्चतरं मतदनमेव एतत्। 

  एकेनैव चरणेन निर्वाचने सम्पन्ने तमिलनाटे तु मतदानप्रतिशतता ८४. ६९ अस्ति। अत्रापि राष्ट्रस्वातन्त्र्यानन्तरम् अङ्कितम् उच्चतरं मतदानमिति मुख्यनिर्वाचनायोगेन ग्यानेष् कुमारेण निगदितम्। 

  पश्चिमवंगे यत्र तत्र कतिपयसंघर्षाः जाताः। मूर्षिदाबादजनपदे अस्ति संघर्षबाहुल्यम् अभवदिति  सूच्यते।