वैभवसूर्यवंशी भारतस्य वरिष्ठसंघे।
![]() |
| वैभव सूर्यवंशी। |
भारतीयसंघं प्राप्नुवन् कनिष्ठतमः क्रीडकः।
सूर्यकुमारः निराकृतः; सञ्जू अन्तर्भूतः।
मुम्बई> कतिपयकालेन क्रिकटक्रीडाक्षेत्रे तरङ्गायितः कौमारवयस्कः कन्दुकताडकः वैभव सूर्यवंशी भारतस्य वरिष्ठदलं प्राप्यमाणः कनिष्ठतमः क्रिकट्तारमभवत्। अस्य मासस्यान्त्ये अयर्लान्डे ततः इङ्गलाण्टे च आयोज्यमानासु टि-२० क्रीडासु एव सूर्यवंशिनः स्थानम्।
१५ वर्षाणि, ७१ दिनानि च वयस्के वैभवे क्रीडासंघं प्राप्ते क्रिकट् इतिहासस्य सच्चिन् टेण्टुल्करस्य नाम्नि भूतम् अनन्याप्तप्राथम्यं [world record] पुरावृत्तमभवत्। यदा सच्चिनः भारताय प्रथमतया क्रीडितवान् तदा तस्य वयः १६ वर्षाणि २०५ दिनानि चासीत्।
सूर्यकुमार यादवं नायकस्थानात् संघाच्च निष्कासितः।नायकस्थाने श्रेयस् अय्यरः नियुक्तः। टि -२० विश्वचषके उज्वलप्रकटनं प्रदर्शितवान् सञ्जू सांसणः अपि भारतदले अन्तर्भूतः।














