होर्मुस् पुनरपि पिहितम्।
यू एस्-इरानयोः परस्पराक्रमणम् अनुवर्तते।
टेहरानं> विश्वमशेषम् इन्धनोपलब्धिसन्दिग्धतां बलेन नयन् आगोलपण्यवस्तुसञ्चलनस्य तन्त्रप्रधानः होर्मुस् समुद्रसङ्कोचः इरानेन पूर्णतया पिहितः। सर्वासामपि महानौकानां सञ्चारनिरोध इति इरानेन उद्घोषितम्।
गतदिने यू एस् इरानः च परस्परं व्योमयुद्धं कठिनतया कृतवन्तौ। इरानस्य इन्धनोत्पादनप्रधानं खार्गद्वीपं निग्रहीष्यतीति ट्रम्पेन भीषा घोषिता।