OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, September 27, 2019

पाकिस्थानेन आतङ्गवादः निर्वापनीयः- यु.एस्
 युणैटड् नेषन्स् > भीकरतां सम्बन्ध्य पाकिस्थानं प्रति सूचनां दत्वा अमेरिक्कदेशः। आतङ्गवादं प्रति पाकिस्थानेन सत्यसन्धतया प्रतिप्रवर्तनं स्वीकरणीयमिति अमेरिक्कदेशस्य प्रधाननयतन्त्रज्ञेन अभिप्रेतम्। एवं कृते सत्येव भारतपाकिस्थानयोः मध्ये जातानां समस्यानां परिहारः साध्यते। तदर्थं सीमाप्रदेशमुल्लङ्घ्य क्रियमाणानाम् आतङ्गवादप्रवर्तनानां निष्कासनाय पाकिस्थानेन प्रयत्नः करणीयः इति सः अवदत्। यु.एन्. सामान्यसभायां यु.एस्.आक्टिङ् कार्यदर्शा आलीस् वेल्स् अपि कार्यमिदम् असूचयत्।