OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, September 25, 2019

जलोपप्लवः, वृष्टिजलेन पूणे निमज्जितम्, २८,००० जनाः अन्यत्र प्रेषिताः।
      मुम्बै> अतिवृष्टिपातेन महाराष्ट्रस्य पूणे प्रदेशे द्वादश (१२) जनाः मारिताः। मुम्बै बंगलूरु राष्ट्रिय-मार्गसमीपे खेदशिवपुर ग्रामे  सुप्ताः पञ्चजनाः जलेन सह गताः आरक्षकाधिकारिणा सन्दीप् पट्टील् इत्यभिधानकेन उक्तम्।। पुरन्दरमण्डलात् द्वौ अदृश्यौ अभवताम्। २८००० जनाः सुरक्षितस्थानं प्रति प्रेषिताश्च।

    अर्णेश्वरमण्डले भित्तिं पतित्वा नववयस्कः मृतः। अन्ये चत्वारः अपि तेन सहमृताः। सिंहगढ् मार्गसमीपं जल प्रवाहेन नीतात् कार् यानात् मृतदेहः लब्धः। बारामत्याः निम्नप्रदेशात् १०००० जनाः सुरक्षितस्थानं प्रति प्रेषिताः। पूणे नगरस्य निम्नप्रदेशात् ५०० जनाः अपि सुरक्षितस्थानं प्रति प्रेषिताः सन्ति।