OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 28, 2019

पाला उपनिर्वाचनं - माणि सि काप्पन् विजयीभूतः। 
माणि सि काप्पन्। 
पाला [केरलं] > पाला विधानसभामण्डले सम्पन्ने उपनिर्वाचने वामपक्षदलाय [एल् डि एफ्] चरित्रविजयः। एन् सि पि दलस्य स्थानाशी माणि सी काप्पनः २९४३ मतदानानां भूरिपक्षे विजयीभूतः। यु डि एफ् संघस्य  ५४ संवत्सराणां अनुस्यूतविजयस्य बन्धनमेव काप्पनस्य विजयेन वामपक्षदलेन प्राप्तम्। 
  केरलकोण्ग्रस् एम् विभागस्य स्थापकनेतुः के एम् माणिनः आजीवनान्तमण्डलमासीत् कोट्टयं जनपदस्थं  पाला। माणिनः मृत्युः तत्र उपनिर्वाचनाय हेतुरभूत्।