OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 24, 2019

बालाकोटे जय्षे शिबिरं पुनरपि आरब्धम्। भारतं प्रति ५०० आतङ्कवादिनः। 
    चेन्नै> पाकिस्थानस्य बालाकोटे पुनरपि आतङ्कवादिभिः रणशिबिरं उद्घाटितम्। ५०० संख्याकाः भीकराः भारतं प्रवेष्टुं सज्जा भूत्वा तिष्ठन्ति इति आवेदनं स्थलसेनाधिपेन विपिनरावत्तेन अङ्गीकृतम्। सीमामुल्लंख्य आतङ्किभिः क्रियमाणस्य आक्रमणस्य प्रत्युत्तरमिव भारतेन पूर्वकृत-द्रुताक्रमणादपि शक्तं स्यात् नूतनम् इति विपिनरावात्तेन पाकिस्थानाय पूर्वसूचना प्रदत्ता। पाकिस्थानस्योपरि अधिकतया प्रक्रमान् स्वीकर्तुं भारतः सज्जः भवति। किं करिष्यति केन प्रकारेण करिष्यति इति पाकिस्थानेन ऊह्यते चेत् तेभ्यः वरम् इत्यपि बिपिनरावत्तः अवदत्। यू एन् सभायां काश्मीरस्य विषयमघिकृत्य प्रधानमन्त्री नरेन्द्रमोदी वक्तुकामः अासीत्। ततः पूर्वमेव भवति सेनाधिपस्य ईदृशोक्तिः॥