OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, September 25, 2019

अबुदाबि राज्ये छात्राणम् अन्ताराष्ट्रं वैज्ञानिकं प्रदर्शनं समारब्धम्‌।
    विज्ञानं प्रायोगिकजीवने येन केनप्रकारेण प्रयोजकीभवेत् विश्वस्य सद्विकासाय कथम् उपयोक्तव्यम् इत्यादीन् विषयान् मनसि निधाय  छात्राणाम् अनुसन्धान प्रयत्ननि एव अन्ताराष्ट्रिय वैज्ञानिक प्रदर्शने अवतारयति। 
  भारतं तथा अन्ये ७० सङ्‌ख्याधिकानि राष्ट्राणि च अस्मिन् प्रदर्शने भागं स्वीकुर्वन्ति। आहत्य  २५०० संख्याकाः विज्ञानोत्सुकाः छात्राः भागं स्वीकुर्वन्ति। अस्मिन् ५०० छात्राः यू ए ई राष्ट्रतः भवन्ति। वातावरण व्यत्ययेन  जायमानायाः समस्यायाः पारं गन्तुम् उपकारका नूतना विद्या, क्षेत्रेषु कीटनाशिनीनां प्रयोगाय उदग्रयानकं (drone) गार्हिकाम् अग्निदुर्घटनां रोद्धुं निर्मितम् उपकरणम् इत्यादि शताधिकानि विज्ञान-दर्शनानि अस्यां प्रदर्शिन्यां प्रदर्शितानि सन्ति । गुरुवासरे प्रदर्शिनी समापयिष्यति।