OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, September 23, 2019

आह्लादश्रृङ्गमारुह्य 'हौडि मोदी'
चित्रे- अमेरिक्कराष्ट्रस्य हूस्टण् देशे हौडि मोदी सङ्‌गमे नरेन्द्रमोदी ट्रम्पः च
   हूस्टण्> विश्वस्य बृहत्तमस्य जनतन्त्रराष्ट्रस्य हृदयमेलनमासीत् हौडिमोदी महामेला। हूस्टण् नगरे रविवासरे सम्पन्ने मेलने भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना सह यु एस् राष्ट्रपतिः डोणाल्ड् ट्रंपः अपि सभायाम् सन्निनिहितः आसीत्। ४० निमेषपर्यन्तं सः वेदिकायाम् उपस्थितः आसीत्। कार्यक्रमे भागं स्वीकर्तुमेव आसीत् तस्य हूस्टण् सन्दर्शनम्।
    ५०००० संख्यामितः भारतवंशजाः अमेरिकस्य नागरिकाः स्वात्मनेतारं द्रष्टुं एन् आर् जि पादकन्दुकक्रीडाक्षेत्रं प्राप्तवन्तः आसन्। फ्रान्सिस् 'मार्पाप्प' इत्यस्य अनन्तरम् उज्वलं स्वागतं लभ्यमानः  अन्यतमः वैदेशिकः राष्ट्रनेता भवति नरेन्द्रमोदी इति अमेरिक्कस्य वार्तापत्रिकाः आवेदयन्ति। 'एकः स्वप्नः प्रकाशपूरितः श्वः' इति सन्देशम् उद्वहन् आयोजिते कार्यक्रमे ट्रम्पः सक्षात् समागतः इति उभयोः राष्ट्रयोः राजनैतिक व्यावसायिक बन्धः अधिकतया शक्तं भविष्यति इत्यस्य सूचना  इति राजनैतिकनिरीक्षकाः अभिप्रेन्ति॥