OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 28, 2019

कृषिविषयोऽपि पाठ्यप्रणाल्याम् अन्तर्भविष्यति- केरलस्य शिक्षामन्त्री।
   तिरुवनन्तपुरम्> कृषिः अस्माकं संस्कृतेः सूचिका भवतीति आशयं निर्धार्य पाठ्यपद्धत्यां पाठान् सज्जीकरिष्यतीति केरलस्य शिक्षासचिवः सि.रवीन्द्रनाथः। कार्षिकमण्डलं प्रति युवकानाम् आकर्षणाय केरलस्य सामान्यशिक्षाविभागेन  क्रियमाणस्य "पाठं ओन्न् पाटत्तेक्क्" (प्रथमः पाठः केदारं प्रति) इति कार्यक्रमस्य राज्यस्तरीयोद्घाटनसभायां प्रभाषयन् आसीत् सचिवः। पठनमिव कृषिरपि मानवजीवनस्य भागः करणीयः इति सचिवेन अभिप्रेतम्। कार्षिकवृत्तिं प्रति ज्ञानं एकैकस्यापि छात्रस्य आवश्यकम् इति सः अवदत्। उद्‌घाटनकार्यक्रमे कार्षिकसचिवः वि.एस्. सुनिल्कुमारः अध्यक्षः आसीत्। कार्यक्रमेऽस्मिन् कार्षिकविभागः  संयुक्ततसहकारी भवति।