OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 17, 2019

केरलराज्यस्तरीय संस्कृतदिनाचरणम्  पालक्काट् जनपदे।
-राजकृष्णः श्रीकृष्णपुरम्
     संस्कृतपठन पाठन विकासाय केरलसर्वकारेण बह्यः योजनाः आविष्कृताः। भारते प्रप्रथमं प्रथमकक्ष्यातः आरभ्य संस्कृतम् अध्येतुं व्यवस्था अद्य केरलेष्वेव वर्तते। अधुना केरले सर्वकारेण द्वादशतमं संस्कृतदिनाचरणम् समुचितरूपेण आयोज्यते ।

     श्रावणपूर्णिमातिथौ एव संस्कृतदिनं आचरति । १९६९ तमे वर्षे यदा  एं.सी. चग्ला वर्यः केन्द्रीय-मानव-संसाधन-मन्त्रिपदव्याम् आसीनः तदा प्रभृत्येव संस्कृत-दिनाचरणस्य प्रारम्भः अभवत्। आकाशवाण्यां संस्कृतवार्ताप्रसारः संस्कृतदिनाचरणं च सममेव प्रारभत। वाजपेयी सर्वकारः २०००-०१ वर्षः संस्कृतवर्षत्वेन समाचरत्। तदा प्रभृति संसकृतदिनाचरणं संस्कृतसप्ताहाचरणरूपेण पर्यणमयत्।

     अस्य वर्षस्य राज्यस्तरीयः संस्कृतदिनाघोषः २०१९ सेप्तम्बर् १९ दिनाङ्के पालक्काट् श्री. एं.पी. केशवप्पणिक्कर् नगरे (कृष्णकृपा सभागृहं, वटक्कन्तरा) आयोज्यते। केरल विधा
नसभासामाजिकस्य षाफी परम्बिल् वर्यस्य आध्यक्ष्ये पालक्काट् लोकसभासामाजिकः वी.के. श्रीकण्ठन् वर्यः अस्य उद्घाटनं करिष्यति। सार्वजनीन शिक्षा निदेशकः डो. जीवन् बाबू ऐ.ए.एस्. वर्यः स्वागतं तथा संस्कृतं विशिष्टाधिकारिणी डो. टी.डी. सुनीतीदेवी वर्या कृतज्ञतां च व्याहरिष्यति। राज्य-शैक्षिकानुसन्धान-प्रशिक्षण परिषदः निदेशकः डो.जे.प्रसाद् वर्यः संस्कृतदिनसंन्देशं विधास्यति। पण्डितसमादरणे अभिनयतिलकं श्री. पी.के.जी. नम्ब्यार्, पद्मश्री डो. पी.आर्. कृष्णकुमार्, श्री. एन्.पी. नटराजशर्मा, डो. एन्. एम्. इन्दिरा प्रभृतयः समादरिष्यन्ते।अपि च अस्मिन् वर्षे राष्ट्रीयसंस्कृतसंस्थानतः प्रथम उपाधिना सुवर्णपतकेन उत्तीर्णायै कुमारि वि जे पार्वत्यै विशिष्टोपहारमपि प्रदास्यति। संस्कृतदिनाङ्कतया राज्ये संस्कृत शिक्षकाणां वि्विधाः स्पर्धाः आयोजिताः आसन् ।तासु स्पर्धासु विजेतृणां पुरस्कारप्रदानमपि अनया सह प्रचलिष्यति।
   अपराह्ने स्स्कृतकाव्यानां सङ्गीतशिल्पं
 संस्कृतह्रस्वचलचित्राणि प्रभृतयः कलाकार्यक्रमाः भविष्यन्ति।