OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, September 8, 2019

'राष्ट्रं युष्माभिः साकं वर्तते' ऐ एस् आर् ओ वैज्ञानिकान् प्रति भारतीयानां प्रधानमन्त्री।

तस्य प्रधानमन्त्री तम् समाश्लिष्टटवान्
   बेङ्गलूरु> राष्ट्रम् ऐ एस् आर् ओ वैज्ञानिकैः सह आलम्बतया तिष्टामः इति भारतस्य प्रधानमन्त्री अवदत्। चन्द्रयानं-२ द्वे इत्यस्य अन्तिम-लक्ष्यस्थानप्राप्तिः नाऽभवत् इति घटनायां राष्ट्रं प्रति भाषमाणः आसीत् प्रधनमन्त्री नरेन्द्रमोदी। शनिवासरे उषाकालात् पूर्वं निश्चितः आसीत् मृदुलावतरणम्। किन्तु विक्रं इति नामाङ्कितस्य यान-भागस्य मृदुलावतरणात् पूर्वं योनन सह विद्यमानः वार्ताविनिमयसंबन्धः विनष्टः अभवत्।  मृदुलावतरणस्य  तत्समयदृश्य दर्शनाय समागतः आसीत् नरेन्द्रमोदी। 
       वयं पुनः अपि पुरतो गमिष्यामः, विजयश्रृङ्गाणि अधिक्रामयिष्यामः। मम विवक्षा एवमस्ति 'राष्ट्रं युष्माभिः साकं वर्तते इति। राष्ट्रस्य प्रगत्यर्थम् अहोरात्रं प्रयत्नं कुर्वन्तः सन्ति भवन्तः' इत्यपि मोदिना उक्तम्।

ऐ एस् आर् ओ निर्देशकं के शिवन् महोदयं नरेन्द्रमोदीवर्यः समाश्ववासयति स्म ।


नागरिकाः एवं वदन्ति।
- 'मन्त्रिणः एवं भवितव्यम्'।