OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, September 12, 2019

'सुधर्मा' दिनपत्रिकायाः सुवर्ण-संवत्सरकार्यक्रमः श्वः भविष्यति।

 सरस्वतीपुरम् > मैसूरु > विश्वप्रसिद्धा सुधर्मा दिनपत्रिका पञ्चाशत् संवत्सराणि समुपगच्छति। सांस्कृतिकक्षेत्रे संस्कृतभाषाक्षेत्रे च पञ्चाशत् वर्षाणां पुण्यफलानि अवाप्य अनुस्यूतं संस्कृतवाङ्मय-प्रकाशनम् इति स्वधर्मपालने तिष्ठति एषा 'सुधर्मा'। इदानीं मोदानां कालः, सुधर्मा दिनपत्रिकायाः सुवर्ण-संवत्सरकार्यक्रमः श्वः सेप्तम्बर् १३ दिनाङ्के भविष्यति॥ 
    मङ्गलकाले सायं ४ वादने उडुपि पेजावरमठाधीशस्य श्री श्री विश्वेशतीर्थ श्रीपादानाम् अनुग्रहभाषणेन सुवर्ण-संवत्सरीय-कार्यक्रमस्य शुभारम्भः भविष्यति। श्री श्री विश्वप्रसन्नतीर्थपादाः पुस्तकस्य लोकार्पणं कृत्वा आशीर्वचनं प्रदास्यति। नव चत्वारिंशत् संवत्सरान् यावत् अनस्यूतप्रवाहानन्तरं पञ्चाशत् तमस्य संवत्सरस्य प्रथमसोपाने प्रविश्यताम् इति संस्कृतप्रेमिणः आशीर्वचसा सम्भृतः भवति फेस् बुक् वाड्साप्  आदयाः नूतनसञ्चारमाध्यमाः॥