OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, September 23, 2019

वातावरण-व्यत्यय-दुर्घटनां विरुद्ध्य १६ वयस्कायाः संग्रामः। १३९ राष्ट्राणि भागं स्वीकृतानि।
ग्रीट्टा तन्बर्गः
     न्युयोर्क्> वातावरण-व्यत्यय-दुर्घटना तथा आगोलतापनं च विरुद्ध्य १६ वयस्कायाः नेतृत्वे संग्रामः। परिस्थितिसंरक्षणमुद्दिश्य आयोजितेषु बृहत्तमेषु प्रथमः संग्रामः भवति एषः इति अनुमीयते। १३९ राष्ट्राणि भागभाक्भूते संग्रामे छात्राः एव अधिकतया सन्ति।
     वातावरणप्रतिसन्धौ दूयमानाय लोकाय प्रतीक्षां वितरति षोडशवयस्कायाः ग्रीट्टा तुन्बर्गस्य मनशक्तिः। स्वीडनस्य छात्रा भवति एषा। वातावरणाय परिस्थितये च राष्ट्रान्तरतले प्रक्रमाः स्वीकर्तव्याः, तदपि शीघ्रात् शीघ्रतरम् इति तुनबर्गः वाञ्छति। अस्य मासस्य २३ दिनाङ्के आयोजिते ऐक्य-राष्ट्रसभायाः वातावरण शिखरमेलने भागं स्वीकर्तुं न्यूयोर्कनगरं प्राप्‌ता सा अत्रत्याः संग्रामस्य च नेतृत्वम् अलङ्करिष्यति।