OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, September 16, 2019

सप्तापत्यानि विदेशेषु निवसन्ति, ९३ वयस्का माता एकाकी, आरक्षकाः श्रावणपर्वणि अन्नवस्त्रादिना सह तस्यै   सग्धिं अपरिवेषयन्। 

(त्रेस्याम्मया सह भाषमाणः आरक्षकप्रमुखाः अन्ये सहकारिणश्च।) 
     मङ्कोम्प्>केरळम्> समयः मध्याह्नः समुपगच्छति। तण्टुलं पचनाय संस्थाप्य ९३ वयस्का वृद्धमाता 'त्रेस्याम्म' विश्रमाय प्रकोष्टं प्रति मन्दम् चलति। अद्य श्रावणदिनं तथापि तस्यै विशेषता नास्ति। अपत्यानि सप्त सन्ति, सर्वे विदेशेषु दूरेषु च। बृहदाकारगृहे सा एकाकी एव। तस्याः मुखम् अधिकतया खिन्नम् अभवत्। 
   झटिति तदभवत्I अतिथयः समागताः एटत्वा देशस्थ आरक्षकप्रमुखः सेसिल् क्रिस्ट्यन् राजः तस्य सहकारिणश्च आसन् एते। अपत्यान् मनसिनिधाय विचिन्तयन्तः वृद्धमातुः पुरतः अन्यानि षट् अपत्यानि प्रत्यक्षीभूतानि।  आरक्षकेषु एकैकः तेषां गृहेषु निर्मितानि भोज्यानि स्थापितवन्तः। गार्गी नामिका स्वस्य हस्तेन नूतनवस्त्राणि तां धारितवती। अनन्तरं  ते   सग्धिं अपरिवेषयन्। केवलं तण्डुलोदनेन प्रतिदिनम् अन्नं भुक्तवती सा अरक्षकापत्यैः साकं मिष्टान्नं खादितवती। अनन्दन वा सन्तापेन वा सा रुरोद। 
   जनमैत्री आरक्षक-विभागस्य निरीक्षणे आसीत् कतिपयदिनानि यावत् वृद्धमातुः गृहम्। ते श्रावण सग्धिः तत्रैव भवतु इति निश्चितवन्तः। अनन्तरं तस्याः पुत्रान् आहूय्य मातुः शिश्रूषायै व्यवस्थां निरदिशत् च।