OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, September 12, 2019

काश्मीर् विषये व्यवहारः न भविष्यतीति ऐक्यराष्ट्रसभा ; पाकिस्थानस्य प्रत्याघातः। 
जनीवायां यू एन् सम्मेलने वक्ता स्टीफन् डुजरिक्
 जनीवा > यू एन् संस्थायाः मानवाधिकारसमित्यां पाकिस्थानस्य भारतविरुद्धप्रस्तावे तद्राष्ट्रं सभायामेव प्रत्याघातविधेयमभवत्। काश्मीर्विषये मानवाधिकारसमित्याः व्यवहारः अवश्य इति पाकिस्थानस्य निर्देशः समित्या निरस्तः।
 यू एन् मुख्यकार्यदर्शिनः वक्त्रा स्टीफन् डुजरिक् इत्यनेन स्पष्टीकृतं यत्  अस्मिन् विषये द्वयोः राष्ट्रयोः वादप्रतिवादान् सम्यगधिगम्य यू एन् संस्थायाः मुख्यकार्यदर्शी अन्टोणियो गुटरस् वर्यः राष्ट्रद्वयं प्रति चर्चां कृतवान्। काश्मीरविषये ऐक्यराष्ट्रसभायाः पूर्वस्यां पदस्थित्यां व्यत्ययः न जातः, समस्या उभयोः राष्ट्रयोः परस्परचर्चया परिहर्तव्या इत्येव यू एन् समित्याः मतमिति स्टीफन् वर्येण उक्तम्।।