OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, September 27, 2019

जम्मूकाश्मीरे कलामस्य नाम्नि गवेषणकेन्द्रम् 
 
    नवदहली > प्रतिरोधमण्डले भारतं शक्तं कर्तुं गवेषणकेन्द्रम् सज्जीकरोति। भूतपूर्वराष्ट्रपतेः ए पि जे अब्दुल्कलामं प्रति आदरसूचकत्वेन गवेषणकेन्द्रस्य नामकरणं "कलां सेन्टर् फोर् सयन्स् आन्ट् टेक्नोलजि" इति कर्तुं निर्णयः जातः। राष्ट्रस्य सैनिकशक्तये आवश्यकानि अत्याधुनिकायुधानि निर्मातुं  प्रतिरोधसाङ्केतिकविद्यायाः विकसनं  लक्ष्यीकृत्य गवेषणायैव केन्द्रं संस्थाप्यते। डिफन्स् रिसर्च् आन्ट् डवलप्मेन्ट् ओर्गनैसेषनस्य नेतृत्‍वं आयोजनायै निश्चितम् वर्तते। गवेषणकेन्द्रस्थापनाय धारणापत्रे जम्मू केन्द्रविश्वविद्यालयेन सह डि आर् डि ओ हस्ताक्षरम् अकरोत्। दहल्यां सञ्जाते मेलने केन्द्रप्रतिरोधसचिवेन राजनाथसिंहेन एव धारणापत्रे हस्ताक्षरं कृतम्।