OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, April 4, 2020

कोविड् प्रतिरोधे विश्वादर्शरूपेण केरलम्।
वरिष्ठवयस्कौ दम्पती रोगविमुक्तौ। 
कोविड्-१९ रोगात् विमुक्तिं प्राप्तवन्तौ दम्पतीः तोमसः मरियाम्मा च आतुरालयात् बहिरागच्छतः। 

कोट्टयम् >  ९३ वयस्कः तोमसः ८९ वयस्का मरियाम्मा च कोट्टयं वैद्यककलालयस्य  द्वितीयविभागस्य द्वारेण यदा बहिरागतौ तदा 'स्वास्थ्यकेरलस्य' भारतस्य च अभिमाननिमेषः आसीत्। कोविड्-१९ रोगात् विमुक्तिं प्राप्तवन्तौ प्रप्रथमवयोधिकौ भारतीयौ अभवदेतौ दम्पती। 
  केरले पत्तनंतिट्टा जनपदात् मार्च् ८तमे दिनाङ्के आसीत् कोरोणाबाधया पूर्वोक्तौ दम्पती कोट्टयं वैद्यककलालयस्य कोरोणा एकान्तवासविभागं प्रवेशितौ। इट्टलीतः स्वदेशं प्राप्तस्य कोविड्बाधितस्य पितरौ स्तः एतौ। सम्पर्केण आसीदेतयोः रोगबाधा।
  प्राथमिकस्तरे तयोः चिकित्सा सङ्कीर्णा आसीत्। ९३वयस्कः तोमसः श्वासरोगेण हृद्रोगेण च पीडितः आसीत्। डो. सजित्कुमारस्य नेतृत्वे रूपीकृतस्य वैद्यकसंघस्य अश्रान्तपरिश्रमः एतयोः दम्पत्योः पुनरुज्जीवनाय मार्गः उद्घाटितः। द्वावपि २५ दिनानि पृथक् पृथक् प्रकोष्ठे एकान्तवासे आस्ताम्। मार्च् ३० दिनाङ्के तृतीया स्रवशोधना अपि अभावात्मिका इति विज्ञाय कतिपयदिनान्यपि निरीक्षणे नियुक्तवन्तौ। ह्यः द्वावपि विसृष्टवन्तौ गृहं प्रेषितवन्तौ च। 
  एतस्मिन्नन्तरे तौ दम्पती परिचरणं कृतवती तीव्रपरिचरणविभागस्था अनुवैद्या रेष्मा मोहन्दासः  कोरोणाबाधिता अपि दशदिनानन्तरं रोगविमुक्ता च। सा अपि स्वगृहं नीतवती।