OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 22, 2020

कोविड् १९- आविश्वं दुर्दशा आगम्यमाना वर्तते। 
यू एस् कृते अपि जाग्रतासूचना दत्तेति विश्वस्वास्थ्यसंघटनम्। 
जनीवा >  कोविड् महामारेः अतिदुष्टा दशा लोकैः अभिमुखीक्रियमाणा भवेदिति विश्वस्वास्थ्यसंघटनस्य [WHO] जाग्रतासूचना। "उच्यते यत् तद्विस्वसिहि ; आलोकं महती दुर्दशा आगम्यमाना भविष्यति।" जनीवस्थे 'हू'आस्थाने समायोजिते वार्ताहरसम्मेलने संघटनस्य निदेशकाध्यक्षः टेड्रोस् अथनोम् गब्रियेलः उक्तवान्। किन्तु प्रस्तावस्य विशदीकरणं तेन न कृतम्। संघटनस्य प्रवर्तनं सुतार्यमस्ति। विषाणुः अत्यन्तं विनाशकारी इत्यतः अस्मासु जायमाना मतभिन्नता अपि रोगनिर्व्यापने तस्य प्रतिरोधविषये च क्लिष्टतां जनयेत् - तेनोक्तम्। स्वास्थ्य, प्रतिरोधसंविधानेषु क्षीणविभवम् आफ्रिक्कामण्डलं विषाणोः आगामिप्रभवकेन्द्रमिति पूर्वमेव तेन सूचितमासीत्। 
  यू एस् कृते जाग्रतासूचना दत्ता। 
  चीनराष्ट्रे वुहाने कोरोणास्थिरीकरणस्य प्रथमदिनादारभ्य एव अमेरिक्कायै अपि जाग्रतासूचना दत्ता इति टेड्रोस् अथनेन उक्तम्। इतदधिकृत्य ट्रम्पेन उन्नीताः आरोपाः तेन निरस्ताः। अमेरिक्कातः किमपि वृत्तान्तं निलीतं कृतम्। 
  विषाणुव्यापननिरोधे प्रथमसोपाने स्वास्थ्यसंघटनस्य प्रवर्तने अलम्भावः जातः इति डोणाल्ड् ट्रम्पेन बहुवारमारोपितमासीत्।