OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, April 21, 2020

पि.पि.ई.स्यूतः ददातु! ब्रिटीश् प्रधानमन्त्रिणः पुरतः प्रतिषेधं प्रकाशितवती ‌भारतीयवैद्या।
डा. विनोविन्
   लन्डन्> वय्यक्तिकानि सुरक्षा उपकरणानि अलब्धानि इति आरोपयित्वा ब्रिटीश् प्रधानमन्त्रिणः कार्यालयस्य पुरतः प्रतिषेधं प्रकाशितवती भारतीयवैद्या। षण्मासगर्भा डा.मीनल् विस् एवं कोविड् महाव्याधिंविरुद्ध्य प्रतिरोधप्रवर्तने निमग्ना भवति।
 राष्ट्रिय-स्वास्थ्य-सेवा-प्रवर्तने निमग्नानाम् उपयोगाय वय्यक्तिकानि सुरक्षा उपकरणानि न लभन्ते इति दोषारोपणेन सा प्रतिषेधं प्रकाशितवती। आतुरालय कर्मकराणां गणवेषं, मुखावरणं च धृत्वा 'स्वास्थ्यप्रवर्तकान् संरक्षयतु' इति आलेखितं स्फोरकफलकमपि स्वीकृत्य आसीत् तस्याःप्रतिषेधं। तुर्की देशात् वितरणे
कालविलम्ब: अभवत्I अतः वय्यक्तिकानां सुरक्षा उपकरणानां दौर्लभ्यं अभिमुखीकुर्वन्ति इति ब्रिट्टीश् वैद्यसंघटना ब्रिटीश् वैद्य सभायाम् आवेदितम्I ततः पश्चात् एव वैद्यायाः प्रतिषेधः अभवत्।.

स्वास्थ्य कर्मकारानां फलप्रदं संरक्षणं आवश्यकं। कोविड् व्याधिबाधितानां परिचर्या-कारणत्वेनैव वैद्याः इदानीं विपत् मार्गे भवति।  सुरक्षा उपकरणानाम् अपर्याप्ततया कर्मकरा: जीवन मरणयोः मध्ये भवति इति बिएंए अन्वेषणवृत्तान्ते उक्तम्।
 आतुरालयेषु इदानीं कञ्चुकस्य दौर्लभ्यम्  अधिकतया सन्ति इति एन्.एच्.एस्. प्रोवैडेर्स् मुख्य अध्यक्षः क्रिस् होप्सणेन आवेदितम्। चतुर्लक्षं कञ्चुकाः तुर्की देशात् निर्याति।कञ्चुकानां दौर्लभ्यं अनुसृत्य तेषां पुनररुपयोगं करणीयम् इति स्वास्थ्य विभागस्य मार्गनिर्देशनेऽपि परिवर्तनं कृतवन्तः।