OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, April 9, 2020

येमन् राष्ट्रे गोलिकाप्रहराय विरामः। ५० कोटि डोलर् धनस्य  सौदिसाहाय्यम् I 
 मनाम> येमन् राष्ट्रे वारद्वयस्य गोलिकाप्रहर- विरामाय अरब् सख्यसेनया निश्चितम्। यु एन् इत्यस्य नेतृत्वे शान्तता प्रक्रमाः पुनरारंभणीयाः। कोराणा विषाणुरोधाय प्रयत्नाय समयः आवश्यकः अतः एव गोलिकाप्रहराय विरामः कृतः इति सख्यसेनायाः वक्ता केणल्. तुर्की अल् मालिकी अवदत्l  मानुषिकसाहायार्थं ५० कोटि डोलर् धनं तथा विषाणु प्रतिरोधाय २.५ कोटि डोलर् धनस्य साहाय्यं च सौदी अरेब्या राष्ट्रेण प्रदास्यते। पञ्चवर्षाणि यावत्‌ अनुवर्तमानेन युद्धेन  भग्नं भवति येमन् राष्ट्रम्।