OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, April 24, 2020

सम्पूर्णपिधानम् - उत्तरभारते वायुमलिनीकरणस्य अनुपातः न्यूनत्वं प्राप्तः।
 नवदहली> भारते कोविड्१९ प्रतिरोधाय सम्पूर्णपिधानं मेय् मासस्य ३ दिनाङ्कपर्यन्तं परिवर्तितमासीत्।  एकमासात्मककालस्य सम्पूर्णपिधानस्य अवलोकनवेलायां कोविड्१९ व्यापननस्य प्रतिरोधेन सह प्रकृतेः संरक्षणकार्यमपि साधितं वर्तते। अनेन एकमासात्मककालेन उत्तरभारते वायुमलिनीकरणस्य अनुपातः गतविंशतिवर्षापेक्षया न्यूनत्‍वं जातः इति अमेरिक्कस्य बहिराकाशपठनकेन्द्रेण नासेन प्रस्तावितम्। सम्पूर्णपिधानं राष्ट्रस्य विविधप्रदेशेषु अन्तरीक्षमलिनीकरणस्य अनुपातं न्यूनीकर्तुम् अत्यन्तम् उपकारकम् अभवदिति नासकेन्द्रस्य वैज्ञानिकेन पवन् गुप्तेन अभिप्रेतम्। पिधानकारणतया मार्गेषु वाहनानां न्यूनत्वं तथा व्यावसायिकशालानां प्रवर्तनराहित्यं च अन्तरीक्षमलिनीकरणं न्यूनीकर्तुं सहायकमभवत्।