OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, April 14, 2020

भारते सम्पूर्णपिधानं मेय् ३ पर्यन्तं दीर्घीकृतम्। 
कोविड् प्रतिरोधे भारताय विजयः।
आगामिसप्ताहः निर्णायकः। 
कतिपयमण्डलेषु एप्रिल् २०तः  आ श्वास पदक्षेपाः। 
नरेन्द्रमोदी राष्ट्रं सम्बुध्य भाषते। 
नवदिल्ली> कोविड्रोगस्य सम्पूर्णनिर्माजनं लक्ष्यीकृत्य सम्पूर्णं पिधानं मेय् तृतीयदिनाङ्कपर्यन्तं दीर्घीकृतमिति प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घुष्टम्। सम्पूर्णपिधानस्य प्रथमसोपानम् अद्य समाप्यमाणे राष्ट्रम् अभिसम्बुध्य भाषमाणः आसीत् सः। 
  एतावत्पर्यन्तं सर्वे भारतीयाः कोरोणाविषाणुप्रतिरोधे अभ्यस्ताः सैनिका इव व्यवहृतवन्तः इति प्रशंसां कृतवान्। किन्तु आगामिसप्ताहः अतीवनिर्णायकः इति प्रधानमन्त्रिणा सूचितम्। तीव्रबाधितमण्डलेषु कर्कशं नियन्त्रणमावश्यकम् । कतिपयेषु अवश्यसेवनमण्डलेषु एप्रिल् २० दिनाङ्कात् केचन आश्वासप्रक्रमाः भविष्यन्तीति तेन सूचितम्। तदर्थं मानदण्डाः श्व आरभ्य प्रख्यापयिष्यन्ति।