OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 22, 2020

कोविड्१९ सान्निध्य निरीक्षणाय न्यूनमूल्येन भारतीयं संविधानम्।
    नवदहली> कोविड्१९ रोगस्य सान्निध्य-निरीक्षणम् अतिमूल्यवत् भवति।  एकस्य सान्निध्य-निरीक्षणाय प्रायः ४०००-४५०० रूप्यकाणि भवेयुः। रोगव्यापनस्य प्रथमदिनेषु शरीरे रोगाणोः सान्निध्यं परीक्षितुम् उपकरणानि विदेशेभ्यः स्वीक्रियमाणानि आसन्‌। तदनन्तरं  भारतेन परीक्षणोपकरणं विकसितम्। अधुना नूतनपठनानां साह्येन मूल्यस्य न्यूनीकरणेन च नवीनं संविधानं भारतीयगवेषकाभ्यां विकसितम्। सि एस् ऐ आर् विभागस्य देब्ज्योति चक्रवर्ति, सौविक् मौति चेति द्वाभ्यां जीवशास्त्रगवेषकाभ्यामेव उपकरणं विकसितं वर्तते। अनेन उपकरणेन एकखण्टाभ्यन्तरे अल्पेन व्ययेन शरीरे रोगाणोः सान्निध्यं सम्बन्ध्य निरीक्षणफलं ज्ञातुं शक्यते। प्रसिद्धस्य चलच्चित्रनिदेशकस्य सत्यजित् राय् महोदयस्य प्रमुखकथापात्रस्य 'फेलूद'स्य नाम्ना इदं नूतनं कोविड्१९ परीक्षणोपकरणं व्यवह्रियते। एतत्सम्बन्ध्य विशदीकरणं ऐ जि ऐ बि अध्यक्षेण अनुराग् अगर्वालेन कृतम्।