OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, April 30, 2020

भारते कोविड्मरणानि सहस्रमतीतानि। 
नवदिल्ली >  राष्ट्रे कोविड्बाधया मृतानां संख्या १००८ अभवदिति स्वास्थ्यमन्त्रालयेन निगदितम्। गतदिने ७१ रोगिणः मृताः। प्रप्रथममेव एकेनैव दिनेन एतावन्ति मरणानि भूतानि। ३१,७८७ जनाः रोगबाधिताः अभवन्। इतःपर्यन्तं ७,७९६ जनाः रोगमुक्ताः जाताः। 
  भारते महाराष्ट्रं कोविड्विषये अत्यधिकां दुर्दशामावहति। तत्र कोविड्बाधितानां संख्या नवसहस्रमतीता। गुजरात् , दिल्ली राज्यद्वयमपि महाराष्ट्रमनुगच्छति। त्रिसहस्राधिकाः जनाः प्रत्येकस्मिन् राज्ये रुग्णाः सन्ति।