OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, April 5, 2020

भारते अद्य ऐक्यदीपज्वालनम्।
 नवदिल्ली >  कोरोणानिर्व्यापनप्रवर्तनानाम् अंशतया भारते अद्य रात्रौ नववादनतः नवनिमेषान् यावत् विद्युद्दीपान् निर्व्याप्य सिक्थवर्तिका, मृद्दीपः, तैलदीपः, करदीपः इत्यादीन् अन्यान् दीपान् 'मोबैल् दीपान्' वा प्रज्वाल्य जनाः कोरोणाप्रतिरोधप्रवर्तनेषु ऐक्यबोधं प्रकाशयन्ति। प्रधानमन्त्रिणः नरैन्द्रमोदिनः  निर्देशं शिरसा वहन्तः एव एतादृशं प्रतीकात्मकं प्रवर्तनं जनानाम् ऐक्यबोधनाय निर्वहन्ति। 
  जनानाम् वासस्थानेषु एव एवं ऐक्यबोधनं करणीयम्। विद्युद्दीपा एव निर्व्यपनीयाः। दूरदर्शनं, व्यजनं, प्रशीतकम् इत्यादीनि न निर्व्यापनीयानि। कोरोणानामकम् अन्धकारमपनीय सम्पूर्णस्वास्थ्यरूपं प्रकाशम् आभारतं व्यापयितुमेव इदं प्रवर्तनमायोजितम्।