OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 29, 2020

ब्रिट्टने यूएस् राष्ट्रे च कोविड् अनियन्त्रणरीत्या।
फ्रान्स् स्वीडन् राष्ट्रयोः आश्वासप्रक्रमाः।
आविश्वं कोविड्बाधिताः ३१लक्षं ; मरणानि लक्षद्वयाधिकानि। 
  > लोके बहुषु इतरराष्ट्रेषु यद्यपि  कोविड्रोगः नियन्त्रणविधेयः अभवत्तथापि ब्रिट्टने यू एस् राष्ट्रे च रोगव्यापनम् अनियन्त्रणरीत्या अनुवर्तते। लोके विद्यमानेषु रोगिषु ⅓अंशः अपि अमेरिक्कायामेव वर्तते। इतःपर्यन्तं तत्र ५७,०४९ जनाः मृत्युमुपगताः। रोगबाधितास्तु दशलक्षाधिकाः अभवन्। 
  ब्रिट्टने तु मरणमानं तीव्रमुद्गच्छति। इतःपर्यन्तं २१,००० परं जनाः मृताः। गतसप्ताहेन मृत्युसंख्या द्विगुणितमभवत्। शताधिकाः स्वास्थ्यप्रवर्तका अपि मृत्युमुपगताः। 
  किन्तु फ्रान्स् स्वीडन् इत्यस्मिन् राष्ट्रद्वये मृत्युमानं न्यूनीकरोति इत्यतः तत्र आश्वासप्रक्रमान्  प्रख्यापितुम् उद्दिश्यते। आस्ट्रेलिया राष्ट्रे नियन्त्रणानि अंशतया निराकृतानि।