OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, April 18, 2020

कोविड् - आविश्वं मरणानि सार्धलक्षमतीतानि ; रोगबाधिताः २२ लक्षम्।
अमेरिक्कायां अवस्था कष्टतरा। 
वाषिङ्टण् >  आविश्वं कोव्ड्रोगबाधिताः २२लक्षमतीताः। १,५०,६२३ जनाः मृत्युमुपगताः। अमेरिक्कायां गत२४होराभ्यन्तरे ४५९१ जनाः कोविड्रोगबाधया मृताः। तत्र अवस्था आशङ्काजनका वर्तते। 
  केवलममेरिक्कायाम् इतःपर्यन्तं मरणानि ३४,७०५ अभवन्। रोगबाधिताश्च ६,७९,७६२ भवन्ति। स्पेयिने १,८४९४८ रोगबाधितेषु १९,३१५ जनाः कालयवनिकां प्राप्ताः। इट्टली, फ्रान्स्, जर्मनी, ब्रिट्टन् इत्येतेषु यूरोपीयराष्ट्रेषु एकैकेषु लक्षाधिकाः रोगिणः सन्ति।