OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, April 22, 2020

भारताय प्रत्यर्पणं - विजयमल्यस्य याचिका निरस्ता। 
विजय मल्यः।
 लण्टन् >  भारतस्य विविधेभ्यः वित्तकोशेभ्यः ९०००कोटि रूप्यकाणां ऋणं स्वीकृत्य राष्ट्रात् पलायितः मद्यराजः विजय मल्यः पुनरपि ब्रिट्टीष् उच्चन्यायालयेन प्रहरितः। प्रकरणस्य उपधार्थं मल्यं भारतं प्रतिनिवर्तयितुं अधोनीतिपीठस्य आदेशं विरुध्य मल्येन समर्पिता याचिका उच्चनीतिपीठेन निरस्ता। अनेन मल्यं भारतमानेतुं 'सि बि ऐ , ई डि संस्थयोः प्रयत्नाः सफलप्रायाः वर्तन्ते। पुनः यू के सर्वोच्चन्यायालयः एव मल्यस्य एकमात्रं शरणस्थानम्। तदर्थं १४ दिनानां कालः अनुमोदितः। सर्वोच्चनीतिपीठस्यापि विधिरपि मल्याविरुद्धः तर्हि भारत-यु के आदानप्रदानसन्ध्यनुसारं २८ दिनाभ्यन्तरे मल्यं भारताय प्रत्यर्पयिष्यति।