OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, April 9, 2020

हैड्रोक्सी क्लोरोक्विन् औषधस्य विदेशनयनम् -
मोदी ट्रम्पः च। 
"मोदी महान्" इति ट्रम्पः ; "औषधं मृतसञ्जीवनी"ति ब्रसील् राष्ट्रपतिः। 
जैर् बोल्सोनारो 
वाषिङ्टण् / नवदिल्ली > शीतज्वराय भारते उपयुज्यमानं 'हैड्रोक्सि क्लोरोक्विन्' नामकम् औषधं कोविड् प्रतिरोधाय विदेशराष्ट्राणि प्रति नेतुं भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः अनुमतिः सर्वत्र श्लाघ्यते। डोणाल्ड् ट्रम्पस्य अभ्यर्थनानुसारं गुज्रालराज्यस्थेभ्यः उद्योगशालेभ्यः २.९कोटि 'डोस्' परिमितं औषधं अमेरिक्कां नीतमासीत्। ततः नरेन्द्रमोदी अतिमहान् तथा श्रेष्ठ इति ट्रम्पः मोदिनं प्राशंसत। 
  तथा च हैड्रोक्सि क्लोरोक्विनं रामायणस्थं मृतसञ्जीवनिं उपमीय ब्रसील् राष्ट्रपतिः जैर् बोल्सोनारो वर्यः। शीतज्वरस्य औषधरूपं हैड्रोक्सि क्लोरोक्विनम् अपेक्षयन्तः ३० राष्ट्रनेतारः भारतम् अभ्यर्थितवन्तः आसन्।