OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, April 20, 2020

भारते कोविड् बाधिताः १६,००० अतीताः ; मरणानि ५००।
दिल्ल्यां नवजातशिशुः मृतः। 
महाराष्ट्रे स्वास्थ्यप्रवर्तकेषु रोगबाधा वर्धते। 
नवदिल्ली >  भारते कोविड्रोगबाधिताः १६,११६ वर्तन्ते। मृत्यमुपगतास्तु ५१९। ह्यः ३१ जनाः मृताः।
   महाराष्ट्रे एव अधिकानि मरणानि अभवन् - १२।  स्वास्थ्यप्रवर्तकेषु अपि रोगबाधा वर्धते इति आशङ्कां जनयति। नगरस्थेषु विविधेषु आतुरालयेषु उपत्रिंशत् वैद्याः २००अधिकाः अनुवैद्याः अपि कोविड्ग्रस्ताः वर्तन्ते। रोगग्रस्तासु अनुवैद्यासु १२० केरलीयाः सन्ति। 
  राष्ट्रराजधान्यां दिल्ल्यां रोगः अनियन्त्रितरीत्या व्याप्यते। प्रकटितलक्षणहीनेष्वपि विषाणुः स्थिरीक्रियते इत्यवस्था अस्ति। केवलं ४५ दिनवयस्कः नवजातः शिशुः अपि ह्यः कोविड्बाधया मृतः। भारते कोविडेन मृत्युं प्राप्नोतीति प्रथमः प्रकरणः भवत्येषः।