OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 29, 2020

 कोविड्वाक्सिन् - भारतं प्रशंसमानः  W H O मुख्यः। 

    न्यूयोर्क्> कोविड्रोगस्य प्रत्यौषधविषये विश्वस्वास्थ्यसंघटनस्य नेता टेड्रोस् अथनों गेब्रियेसूस् नामकः भारतं प्राशंसत। कोविड्युद्धे इतरराष्ट्रेभ्यः साह्यं कर्तुं प्रत्यौषधस्य उत्पादनशक्तिम् उपयोक्ष्यते इति भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रस्तावं परामर्शयन्नासीत् अथनोमस्य प्रशंसा। 

   सामान्यहिताय विभवानाम् उपयोगेनैव महामारिं प्रतिरोद्धुं शक्यते इति सः ट्विटर् द्वारा निगदितवान्।