OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 8, 2020

 केरलतीरे समुद्रे प्रचण्डवातः - तिस्रः नौकाः भग्नाः। 

     कोष़िक्कोट्>  रविवासरे रात्रौ प्रचण्डवातेन दुरापन्नेन समुद्रविक्षोभेन केरलतटे तिस्रः मत्स्यबन्धननौकाः भग्नाः जाताः। कस्यापि जीवहानिः नाभवत्। १६ होराः यावत् समुद्रे निपतिताः १३ धीवराः साहसिकतया रक्षिताः। 

  पोन्नानी, आलप्पुष़ा कन्याकुमारी प्रदेशेभ्यः अरबसमुद्रे मत्स्यबन्धनार्थं प्राप्ताः यन्त्रनौकाः  केरलतीरात् ६ 'नोटिकल् मैल्' दूरपरिमिते स्थाने दुर्घटनापतिताः आसन्। समुद्रविक्षोभेन नोकाः विशीर्णाः। धीवराः विशीर्णान् नौकावशिष्टानाश्रित्य १६ होराः यावत् अलक्ष्यतया समुद्रे अटन्तः आसन्। 

  नाविकसेना, तटसंरक्षणसेना, मत्स्यबन्धनविभागः, तीरारक्षकविभागः इत्याद्यः संस्थाः धीवराणां साह्येन अतिप्रयत्नं कृत्वा एव दुर्घटनापन्नानां रक्षामकुर्वन्।