OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, September 20, 2020

 वङ्गान्तरस्समुद्रे न्यूनमर्दः - दक्षिणभारते अतिवृष्टिः। 

      कोच्ची> दक्षिणचीनसमुद्रे रूपवत्कृता 'न्योल्' नामिका वात्या वङ्गसमुद्रे न्यूनमर्दरूपेण संवृत्ता इत्यतः दक्षिणभारते, विशिष्य केरले अतितीव्रवृष्टिः भवेदिति केन्द्रपर्यावरणविभागस्य जाग्रतासूचना। इटुक्की, मलप्पुरं, कण्णूर्, कासर्कोड् जनपदेषु रक्तातिजाग्रता प्रख्यापिता। 

  कोट्टयं, एरणाकुलं, तृश्शूर्, पालक्काट्, कोष़िक्कोट्, वयनाट् जनपदेषु ओरञ्ज् जाग्रता च प्रख्यापिता। 

  गतसप्ताहे केरले अरबसमुद्रोद्भूतन्यूनमर्दस्य कारणतः सामान्येन शक्ता वृष्टिरजायत। जलसम्भरण्यः पूरितप्रायाः वर्तन्ते। षोलयार् परम्पिक्कुलं जलाशयौ प्रपूरितौ इत्यतः जलनिर्गमनमार्गाः उद्घाटिताः च।