OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, September 4, 2020

शिक्षकदिनम् NEP च

संस्कृतप्रेमिणां पुरतः पत्रमिदं प्रकाश्यते। 

पत्रं पठामः -

संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्।

प्रणमामि,

 सप्टेम्बरमासस्य ५ दिनाङ्के शनिवासरे 'शिक्षकदिनम्' इति आचर्यते। सः दिवसः प्रचाराभियानदिनम् इति वयम् आचरामः इति निश्चितम् अस्ति।

 संस्कृतसंवर्धने शिक्षकस्य महत्त्वम् अत्यधिकमस्ति। किञ्च संस्कृतं शिक्षकाधीनमेव अस्ति। बहूनां शिक्षकाणां तपसा एतावन्ति सङ्कटानि सम्मुखीकृत्य संस्कृतविद्या वर्तमानकाले अपि प्रासङ्गिकी अस्ति।

 नूतनशिक्षणनीत्यां संस्कृतविद्यायाः न केवलं समर्थनम् अपि तु तस्याः संवर्धनार्थं बलं प्रदत्तमस्ति। 

संस्कृतस्य उल्लेखः आधुनिकभाषा (N.E.P. - 4.17) इति तत्र कृतः अस्ति। भारतीयज्ञानविज्ञानपरम्परायाः उल्लेखः Sanskrit Knowledge System (N.E.P. - 4.17) इति कृतः अस्ति।

संस्कृतस्य शिक्षणम् आकर्षकं मनोरञ्जकं च भवेत्, संस्कृतमाध्यमेन भवेत्, (N.E.P. - 4.17) सरलमानकसंस्कृतस्य आधारेण भवेत् (N.E.P. - 4.17) इति महत्त्वपूर्णाः सूचनाः तत्र विद्यन्ते।

 संस्कृतपाठशालाः, संस्कृतविश्वविद्यालयाः च शिक्षणस्य मुख्यधारायां भवेयुः (N.E.P. - 22.15)  इति अपि कश्चन महत्त्वपूर्णः बिन्दुः।

अधुना interdisciplinary  (N.E.P. - 22.15)शिक्षणं भविष्यति। अतः विज्ञानच्छात्राः, अर्थशास्त्रच्छात्राः, ललितकलाच्छात्राः अपि संस्कृतं पठितुम् अर्हन्ति। संस्कृतग्रन्थानाम् अध्ययनेन  शास्त्रग्रन्थानाम् आधुनिके सन्दर्भे गवेषणं भविष्यति।

 हस्तलिखितानां संरक्षणम् अध्ययनं (N.E.P. - 22.16) चेति विषये अपि नूतनशिक्षणनीत्याम् आग्रहः दृश्यते।

 भारतीयसंस्कृतेः मूल्यसमुच्चयबोधस्य च  परिचयार्थं संस्कृतभाषा आधारभूता एव।

 भारतीयभाषाणां संवर्धनार्थं (N.E.P. - 22.20)संस्कृतभाषायाः साहाय्यं भविष्यति इति तु सर्वे जानन्ति एव।

अतः संस्कृतशिक्षकाणां भूमिका आगामिकाले महत्त्वपूर्णा भविष्यति। एतं विषयम् अधिकृत्य शिक्षकदिने सर्वे कार्यकर्तारः प्रचारं कुर्युः। अन्यान् प्राध्यापकशिक्षकान् संस्कृतप्रेमीः च प्रेरयन्तु। सर्वे वृत्तपत्रेषु, समाजमाध्यमेषु च लिखन्तु। 

 इति शम्। 

 भवदीयः,

 शिरीषः भेडसगावकरः (अ. भा. प्रचारप्रमुखः संस्कृतभारती)

From WhatsApp