OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, September 4, 2020

 भारते कोविड्रोगिणः ३९लक्षमतीताः ; आशङ्का न विनिवर्तते। 

    नवदिल्ली >  कोविडवलोकने भारतस्य स्थितिः आशङ्काजनका वर्तते। अद्यावधि ३९ लक्षं जनेषु कोविड्रोगः दृढीकृत इति केन्द्रीय स्वास्थ्यमन्त्रालयस्य अवलोकने स्पष्टीक्रियते। 

  गतासु २४ होरासु ८३,३४१ नूतनानि कोविड्प्रकरणानि आवेदितानि। मरणानि तु १०९६ च। आगामिदिनेषु एषा संख्या वर्धिष्यते इति सूचितं वर्तते। 

  महाराष्ट्रे एव विषाणुबाधिताः अधिकतमाः वर्तन्ते| कोविड्स्थिरीकरणप्रतिशतता अपि अत्रैव दृश्यते - १९.२५%। राष्ट्रियप्रतिशतता तु ८.४७ भवति। चण्डीगढ़ [१४.९] , कर्णाटकं [११.८४] दिल्ली [१०.९७] इत्येतेषु राज्येषु दृढीकरणप्रतिशतता देशीयमानमपेक्ष्य अधिकतया वर्तते। 

  महाराष्ट्रं , तमिळनाट् ,आन्ध्रप्रदेश, कर्णाटकम्, उत्तरप्रदेशः इत्येषु पञ्चसु राज्येषु रोगव्यापनमतिरूक्षं वर्तते इति स्वास्थ्यमन्त्रालयस्य विशकलनरेखायां सूचितमस्ति।