OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, September 2, 2020

 प्रणबस्य अन्त्येष्टिः संवृत्ता। 

     नवदिल्ली>  गतदिने दिवंगतस्य भूतपूर्वस्य राष्ट्रपतेः प्रणब् मुखर्जी वर्यस्य अन्येष्टिः कुजवासरे मध्याह्नात्परं द्विवादने दिल्ल्यां लोधिमार्गे विद्युत्श्मशाने सम्पूर्णौद्योगिकबहुमतिभिः सम्वृत्ता। 

  कोविड्नियमाननुसृत्य आसीत् कार्यक्रमाः। 'पि पि ई' आवरणं धृत्वा पुत्रः अभिजितः अन्त्यकर्माणि निरवहत्। अन्ये अपत्ये इन्द्रजितः शर्मिष्ठा इत्येते च  कर्मसु भागं अग्रहीताम्। 

 कोविड्बाधया दिल्लीस्थे सैनिकातुरालये चिकित्सायां वर्तितः प्रणब मुखर्जी  सोमवासरे ५.३० वादने  इहलोकवासं त्यक्तवान्। ह्यः प्रभाते १० वादने तस्य भौतिकशरीरं  राजाजिमार्गस्थं स्ववासगृहं प्राप्तम्। सामाजिकदर्शनं नासीत्। तत्स्थाने प्रकोष्ठान्तरे स्थापितस्य तस्य छायाचित्रस्य पुरतः राष्ट्रपतिः , उपराष्ट्रपतिः, प्रधानमन्त्री, राहुल गान्धी इत्यादयः अन्याञ्जलिं समर्पितवन्तः।