OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, September 7, 2020

 भारतराष्ट्रे मेट्रो रेल्यानसेवाम् अद्य आरभते। 

कोच्ची मेट्रोयानस्य नूतनवीथी अद्यैव उद्घाट्यते। 

   कोच्ची>  पिधाननिवर्तनस्य चतुर्थसोपानस्य अंशतया भारतस्य मेट्रो रेल् यानसेवाम् अद्य आरभते। दिल्ली चेन्नै कोच्ची इत्याद्यः सेवाः कोविड्नियमान् परिपाल्य एव आरभ्यन्ते। 

  केरले कोच्ची मेट्रो तस्य नूतनयात्रायै सिद्धमस्ति। इतःपर्यन्तं 'तैक्कूटं' निस्थाने सेवां समाप्तवत् मेट्रो यानं अद्य आरभ्य 'पेट्टा' निस्थानपर्यन्तं सेवां करोति। आलुवातः पेट्टा पर्यन्तमिति कोच्ची मेट्रो रेल्यानसंस्थायाः प्रथमसोपानस्य सम्पूर्तीकरणमेव अद्य साक्षात्क्रियते। 

  अद्य मध्याह्ने १२.३० वादने केरलस्य मुख्यमन्त्री पिणरायि विजयः नूतनं मेट्रोवीथिम् उद्घाटयिष्यति। कोविड्भीत्या सर्वे कार्यक्रमाः वीडियोसम्मेलनद्वारा एव भविष्यति। केन्द्रमन्त्री हर्दीपसिंह पुरी समारोहे अध्ययनक्षपदमलंकरिष्यति च।

  कोविड्नियमाननुसृत्य एव कोच्ची मेट्रोयानस्य सेवा पुनरारभ्यते। आलुवातः पेट्टापर्यन्तं २५.१६ कि मी दूरमस्ति। अस्याः सेवायाः अनुबन्धरूपेण निश्चितस्य तृप्पूणित्तुरापर्यन्तस्य मेट्रोमार्गस्य निर्माणस्य उद्घाटनमपि अद्य सम्पत्स्यते।