OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, September 17, 2020

 आयुर्वेदवरिष्ठः डो. पि आर् कृष्णकुमारः दिवंगतः। 

 


  कोयम्पत्तूर्>  आयुर्वेदाय आविश्वप्रशस्तिं सम्मानितवान् वैद्यश्रेष्ठः , कोयम्पत्तूरस्थायाः  'आर्यवैद्यफार्मसि' [ए वि पि] संस्थायाः  निदेशकमुख्यश्च डो. पि आर् कृष्णकुमारः [६९] गतरात्रौ  दिवंगतः। न्यूमोणियाज्वरबाधितः सः कोयम्पत्तूरस्थे आतुरालये चिकित्सायां वर्तितः आसीत्। 

  परम्परया लब्धमायुर्वेदसरणिं स्वप्रयत्नेन विश्वसमक्षमानीय विजयश्रीलालितः अभवत्। आयुर्वेदाय दत्तं समग्रयोगदानं पुरस्कृत्य २००९ तमे पद्मश्रीपुरस्कारेण बहुमानितः। परम्परागतरीत्या सह आधुनिकतामपि समञ्सेन सम्मेल्य नूतनः अध्ययनस्मप्रदायः तेन आविष्कृतः। विश्वस्वास्थ्यसंघटनस्य तथा भारतीयवैद्यकगवेषणसंस्थायाः [ऐ सि एम् आर्] च सहयोगेन कृष्णकुमारस्य नेतृत्वे  परम्परागतचिकित्सासरणीः अवलम्ब्य कृतमनुसन्धानं लोकश्रद्धामाचकर्ष।