OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 5, 2020

 कोविड् प्रतिरोधौषधं - २०२१तमस्य अर्धकालं यावत् प्रतीक्षा करणीया। 

जनीवा >  विश्वस्मिन् सर्वत्र कोविडं विरुध्य प्रत्यौषधं प्रावर्तिकं करणीयं चेत् आगामिसंवत्सरस्य अर्धकालं यावत् प्रतीक्ष्यमाणाः वर्तनीयाः इति विश्वस्वास्थ्यसंघटनेन सूचितम्। ततः पूर्वं सम्पूर्णा प्रत्यौषधव्यवस्था असम्भव्या। परीक्षणनिरीक्षणानि कर्कशानि करणीयानीति WHO संस्थया जाग्रतासूचना दीयते। 

  रूस् राष्ट्रे द्विमासाभ्यन्तरे साक्षात्कृताय प्रतिरोधौषधाय सर्वकारेण अङ्गीकारः दत्त आसीत्। यू एस् राष्ट्रे अपि नवम्बरमासे प्रत्यौषधव्यवस्थामारब्धुं राज्यानि निर्दिष्टानि च आसन्। अस्यां भूमिकायामेव जनीवायामायोजिते अवलोकनोपवेशने WHO वक्त्री मार्गरट् हारिस् इत्यनया पूर्वोक्तं प्रस्तुतम्।