OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 12, 2020

 केरले कोविड्बाधिताः लक्षमतीताः।

 द्वौ मन्त्रिणौ रोगबाधितौ। 

   अनन्तपुरी>  केरले ह्यः २९८८ जनेषु कोविड्बाधितेषु रोगबाधितानामशेषसंख्या १,०२,२५४ जाता। ७२,५७४ जनाः रोगमुक्तिं प्राप्ताः। रोगमुक्तेः प्रतिशतता ७३.११ अस्ति। आहत्य ४१० मरणानि अभवन्। 

  केरलस्य द्वौ मन्त्रिणौ कोविड्बाधितौ अभवताम्।  वित्तमन्त्री डो. तोमस् ऐसकः सप्ताहात्पूर्वं रोगबाधया चिकित्सायां वर्तते। उद्योगमन्त्री ई पि जयराजः अपि गतदिने कोविड्रोगयुक्तः अभवत्। द्वयोरपि स्वास्थ्यावस्था शुभोदर्का वर्तते।