OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, September 2, 2020

 प्रणबाय विश्वनेतॄणां समादरः। 

    नवदिल्ली>  भारतस्य भूतपूर्वराष्ट्रपतेः प्रणबमुखर्जेः निर्याणे बहवः राष्ट्रनेतारः समादरं समर्पितवन्तः। १९७१ तमवर्षे बङ्लादेशविमोचनयुद्धे प्रणबस्य अविस्मरणीयं सुधीरं च भागभागित्वं सुस्मृत्वा देशस्य राष्ट्रपतिः अब्दुल् हमीदः प्रधानमन्त्रिणी षेख् हसीना च प्रणबस्य वियोगे अनुशोचितवन्तौ। राष्ट्रे एकदिवसीयदुःखाचरणं प्रख्यापितम्।  बङ्लादेशस्य राष्ट्रपताकां दिनैकं विनम्रं करिष्यति च। 

  नेप्पालाय यथाथमित्रस्य नष्ट एवाभवदिति राष्ट्रपतिः बिदिया देविभण्डारिः 'ट्विटर'द्वारा स्वीयादरं प्रकाशितवान्। प्रधानमन्त्री के पि शर्मा ओली, नेप्पालस्य कम्यूणिस्ट् राजनैतिकदलस्य अध्यक्षः पुष्पकमल दहल प्रचण्डः च स्वकीयानुशोचनं प्राकाशयत्। 

 तथा श्रीलङ्का, इस्रयेलः, रूस्, यू एस् अफ्खानिस्थानं, मालिद्वीपः इत्यादीनां राष्ट्राणां नेतारश्च प्रणब मुखर्जी वर्यस्य देहवियोगे दुःखं प्रकाश्य आदरं समर्पितवन्तः।