OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, September 16, 2020

 आयुर्वेदशास्त्रं विश्वस्मिन् सर्वत्र प्राप्तव्यम् - भारतस्य उपराष्ट्रपतिः। 

    कोच्ची> प्रतिसन्धीन् उत्तीर्य सर्वेषु राष्ट्रेषु आयुर्वेदशास्त्रस्य उत्कृष्टता प्राप्तव्या इति भारतस्य उपराष्ट्रपतिः एम्. वेङकय्यनायिडु उद्बोधितवान्। कोच्चीनगरे आयोजितम् आगोलायुर्वेदसम्मेलनम् ओणलैन् द्वारा उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। आयुर्वेदोद्योगस्य आगोलविपणिं लक्ष्यीकृत्य आधुनिकसाङ्केतिकविद्यायाः साह्यः अपेक्षित इति तेन प्रपूरितम्। 

   २०२६ तमे वर्षे आयुर्वेदोद्योगः १,४००कोटि डोलर् मूल्ययुक्तेन प्रवर्धिष्यते इति Confederation of Indian Industry (CIA) नामकसंस्थायाः केरलविभागेन आयोजिते सम्मेलने निरीक्षितम्।