OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, September 25, 2020

 विश्वप्रसिद्धगायकः एस् पि बालसुब्रह्मण्यम् दिवंगतः। 

कोविड्कालीनः बृहत्तमः नष्टः। 


    चेन्नै>  स्वस्य मान्त्रिकस्वरेण सङ्गीतलोकविजेता एस् पि बि इत्याक्षरत्रयेण लोकप्रसिद्धः गायकः एस् पि बालसुब्रह्मण्यम् सहस्रशः सङ्गीतप्रेमिणां प्रार्थनां विफलीकृत्य अद्य मध्याह्ने एकवादने चेन्नैवैयक्तिकातुरालये दिवं गतः। ७४ वयस्कः सः हृदयस्तम्भनेन परलोकप्राप्त इति वृत्तान्तः तस्य पुत्रेण एस् पि बी  चरणेनैव दृढीकृतः। आगस्त् पञ्चमदिनाङ्कादारभ्य कोविड्बाधया आतुरालयं प्रवेशितः अपि सप्ताहद्वयात्पूर्वं रोगमुक्तः आसीत्। 

  १६ भाषासु चत्वारिशत्सहस्रेभ्यः परं चलच्चित्रगीतानि गायन् 'गिन्नस् अत्युत्कृष्टतां' प्राप्तवान्। दिनेनैकेन कन्नडभाषायां २१ गानानि मुद्रीकुर्वन् अपूर्वलाभं स्वायत्तीकृतवान्। 

  भारतसर्वकारेण पद्मश्री पद्मभूषण पुरस्काराभ्यां समादृतः। षड्वारं श्रेष्ठगायकाय दीयमानः राष्ट्रियपुरस्कारः तेन लब्धः। तदतिरिच्य विविधराज्यानां २५ श्रेष्ठगायकपुरस्कारैश्च सः बहुमानितः आसीत्। २५ चलनचित्रेषु स्वस्य नटनप्रावीण्यमपि एस् पि बी महाशयेन प्रकाशितम्।