OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 12, 2020

 स्वामि अग्निवेशः दिवंगतः। 


    नवदिल्ली>  भ्रष्टाचारान् राजनैतिकनेतॄणां दुश्शासनानि च विरुध्य सधीरं युद्धं कुर्वन् सामाजिकप्रवर्तकः तथा आर्यसमाजस्य नेतृवर्यः स्वामि अग्निवेशः [८०] दिवंगतः। यकृद्रोगबाधया नवदिल्लीस्थे Institute of Lever and Biliary नामके आतुरालये चिकित्सार्थं प्रवेशितः आसीत्। ह्यः सायं षट्वादने मरणमभवत्। 

  १९३९ सेप्टम्बर् २१ तमे आन्ध्रप्रदेशस्थे ब्राह्मणपरिवारे जन्म लेभे। पूर्वीयाश्रमे तस्य नाम वेप श्यामरावु इत्यासीत्। १९६८ तमे वर्षे आर्यसमाजस्य निश्शेषकालप्रवर्तकः अभवत्। 

  भारते सर्वत्र सञ्चरन् भ्रष्टाचारं तथा शासकानां कुशासनं च विरुध्य लोकानुदबोधयत्। अण्णाहसारे वर्यस्य भ्रष्टाचारविरुद्धान्दोलने, प्लाच्चिमटा , कूटंकुलम् इत्यादिषु जनकीयान्दोलनेषु च तस्य योगदानं निस्तुलमासीत्।