OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, January 3, 2022

हिमप्रदेशे अलास्कादेशे अपूर्वाधिकतापः रेखाङ्कितः।


अमेरिक्कादेशेषु बृहत्तमः हिमप्रदेशः भवति अलास्का। दिसम्बर् मासे तत्र हिमपातः सहज एव। किन्तु इदानीं तत्र प्रतिकूलवातावरणमेव। संवत्सरस्य अन्तिमपादे प्रदेशे तापमानम् अनियन्त्रितरूपेण वर्धितम् इति गणनाः सूचयन्ति। विश्ववातावरणसेवायाः (National weather service) गणनानुसारम् अलास्केषु कोटियक् द्वीपेषु तापमानं ६७° फारन् हीट्ट् (१९.४°¢) इति वर्धितम्। इतःपर्यन्तं रेखाङ्कितेषु अधिकतापमानं भवति एतत्। कोटियाक् विमानपत्तनेषु६५ फारन् हीट्ट् तापमानं रेखाङ्कितम्। अधिकतापमानं विविधेषु प्रदेशेषु वृष्टेः कारणमभवत्।