OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, January 17, 2022

 अबुदाबिदेशे स्फोटनम् - विमानपत्तनेषु अपि अग्निबाधा। तैलेन्धनसम्भरिण्यः महाशब्देन विदारिताः।


अबुदाबि> अबुदाबिदेशे त्रिषु तैलेन्धनसम्भरणिषु स्फोटनम् अभवत्। दूरनियन्त्रितम् उदग्रयन्त्रम् इव किंचित् पतित्वा एव स्फोटनम् आपन्नमिति सन्दिह्यते इति अबुदाबि आरक्षकैः दृढीकृतम्। स्फोटने त्रयः जनाः मृतिमुपगतवन्तः। षट्जनाः व्रणिताश्च। यु ए इ राष्ट्रस्य बृहत्तमतैलसंस्थायाः अड्नोक् इत्यस्य मूसफदेशस्थस्य सम्भरणकेन्द्रस्य समीपे प्रथमस्फोटनम् अभवत्। तिस्रः तैलेन्धनसम्भरण्यः स्फोटने विदारिताः। अबुदाबि विमानपत्तनस्य समीपे निर्माणप्रवर्तनस्थलेषु अपि स्फोटनमभवत्। स्थलद्वयेषु अपि स्कोटनात् पूर्वम् उदग्रयन्त्रं निपतितम्  इति अबुदाबी आरक्षकैः दृढीकृतम्। अवस्था नियन्त्रणविधेया इत्यपि आरक्षकैः उक्तम्।