OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, January 23, 2022

चीनाय अमेरिक्कायाः प्रतिवचनम्। ४४ यात्राविमानानि तात्कालिकतया निरस्तानि।

वाषिङ्टण्> कोविड् रोगनियन्त्रणानां भागतया चीनस्य ४४ यात्राविमानानि अमेरिक्काराष्ट्रेण तात्कालिकतया निरस्तानि। एयर् चैना, चैना इस्टेण् एयर्लैन्स्, चैना सतेण् एयर्लैन्स्, सियामेन् एयर्लैन्स् इत्यादि संस्थायाः अधीने वर्तमानानि विमानानि एव तात्कालिकतया निरस्तानि। पूर्वं परिपथभेदकनयमुपयुज्य (circuit breaker - विमानेषु अधिकतया कोविड् रोगप्रकरणानि प्रतिवेदयति चेत् तस्मिन् वायुपथे (air route) विमाननिरस्तननयम्।) अमेरिक्काराष्ट्रस्य विमानानि चीनेन निरस्तानि आसीत्। अमेरिक्का देशात् चीनं प्रति प्रस्थिताः कोविड् रोगरहिताः यात्रिकाः चीने प्राप्ते कोविड् भावात्मकः भविष्यन्ति इति संसूच्य एव चीनेन विमानानि निरस्तानि। तस्य प्रतिवचनमेव अमेरिक्केन चीनाय दत्तम् इति राष्ट्रियवार्तामाध्यमैः प्रतिवेदितम्।