OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, January 21, 2022

 कोविडतिव्यापनं - केरले नियन्त्रणं कर्कशं कारयति। 

अनन्तपुरी> केरले कोविड् रोगस्य अतिव्यापने रूक्षे जाते २३,३० दिनाङ्कयोः सम्पूर्णपिधानवत् आचरिष्यति। केवलमवश्यसेवाभ्यः एव अनुज्ञा भविष्यति। 

  जनपदानि ए ,बी, सी इति विभागत्रयं कृत्वा एव नियन्त्रणानि विधास्यन्ति। तदर्थं जनपदाधिकारिणः आदिष्टाः सन्ति। विद्यालयेषु १०,११,१२ कक्ष्याः कलालयकक्ष्याश्च साधारणरीत्या प्रवर्तिष्यन्ति। प्रथमतः नवमकक्ष्यापर्यन्तं ओण्लेन् कक्ष्याः प्रचलिष्यन्ति। 

  गते अहोरात्रे केरले ४१,६६८ जनाः नूतनतया रोगबाधिताः जाता। टि पि आर् मानं ४३. ७६% अभवत्।