OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, January 28, 2022

 ओमिक्रोण् उपविभेदस्य बि ए २ इत्यस्य व्यापनक्षमता अधिका। 

नवदिल्ली> राष्ट्रे कोविडस्य तृतीयतरङ्गहेतुभूतस्य ओमिक्रोण् विभेदस्य डेल्टा विभेदापेक्षया व्यापनक्षमतामानः अधिकः इति प्रतिवेदनम्।  बहिरागतानि प्रतिवेदनानि अनुसृत्य ओमिक्रोणापेक्षया तस्य उपभेदस्य बि ए२ इत्यस्य अतिव्यापनक्षमता अस्ति। उपभेदः मन्दं सर्वत्र प्रसरति इति स्वास्थ्यमन्त्रालयेन पूर्वसूचना दत्ता। राष्ट्रिय- रोगनियन्त्रणकेन्द्रस्य निदेशकेन सुजीत् सिंहेन  वार्तेयं आवेदिता। सन्दर्भेऽस्मिन् बि ए २ उपभेदः अद्यावधि भारते न दृढीकृतः इत्यपि तेन प्रोक्तम्। डेल्टा विभेदस्य भीषा न समाप्ता इति च तेन निगदितम्।